अस्मिन् अवसरे विद्यालये अनेके कार्यक्रमा: आयोजिता: यथा - प्रार्थना-गीतं, भजनं, श्लोकोच्चारणं, लघुनाटिकामन्चनं, भाषणं, प्रश्नोत्तरी इत्यादय:| विद्यालयस्य प्राचार्या श्रीमती रीना वशिष्ठ काचरू महोदया संस्कृतस्य महत्त्वं प्रदर्शयन्ती छात्रेभ्य: शुभकामना: प्रदत्तवती | सर्वे छात्रा: स्वप्रस्तुतिभि: विद्यालयस्य वातावरणं संस्कृतमयं कृतवन्त:| जयतु संस्कृतं जयतु भारतम् ||